|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.104. अध्यायः 104
Mahabharata - Bhishma Parva - Chapter Topics
संकुलयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-104-0x(4195)(43465)
अर्जुनस्तान्नरव्याघ्रः सुशर्मानुचरान्नृपान् ।
अनयत्प्रेतराजस्य सदनं सायकैः शितैः ॥ 6-104-1(43466)
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे।
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥ 6-104-2(43467)
तं निवार्य शरौघेण सक्रुसूनुर्महारथः ।
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥ 6-104-3(43468)
ते वध्यमानाः पार्थेन कालेनेव युगक्षये।
व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥ 6-104-4(43469)
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष।
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥ 6-104-5(43470)
अपरे तु तदादाय वाजिनागरथान्रणे ।
त्वरया परया युक्ताः प्राद्रवन्त विशांपते ॥ 6-104-6(43471)
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे ।
निरपेक्षा व्यधावन्त तेनतेन स्म भारत॥ 6-104-7(43472)
वार्यमाणाः सुबहुशस्त्रैगर्तेन सुशर्मणा ।
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥ 6-104-8(43473)
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव।
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः ॥ 6-104-9(43474)
सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् ।
त्रिगर्ताधिपतेरर्थे जीवितस्य विशांपते ॥ 6-104-10(43475)
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान्।
भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः ॥ 6-104-11(43476)
तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः।
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत ॥ 6-104-12(43477)
ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः।
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥ 6-104-13(43478)
ततस्तालध्वजः शूरः पाण्डवानां वरूथिनीम्।
छादयामास समरे शरैः सन्नतपर्वभिः ॥ 6-104-14(43479)
एकीभूतास्ततः सर्वे कुरवः सह पाण्डवैः ।
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥ 6-104-15(43480)
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः ।
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥ 6-104-16(43481)
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः ।
पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः ॥ 6-104-17(43482)
भीमसेनस्तु राजानं बाह्लीकं प्रपितामहम् ।
विद्ध्वा नदन्महानादं शार्दूल इव कानने ॥ 6-104-18(43483)
आर्जुनिश्चित्रसेनेन विद्धो बहुभिरशुगैः ।
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः।
चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम् ॥ 6-104-19(43484)
समागतौ तौ तु रणे महामात्रौ व्यरोचताम्।
यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥ 6-104-20(43485)
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः।
ननाद बलवान्नादं सौभद्रः परवीरहा ॥ 6-104-21(43486)
हताश्वात्तु रथात्तूर्णं सोऽवप्लुत्य महारथः ।
आरुरोह रथं तूर्णं दुर्मुखस्य विशांपते ॥ 6-104-22(43487)
द्रोणश्च द्रुपदं भित्त्वा शरैः सन्नतपर्वभिः।
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥ 6-104-23(43488)
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे।
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥ 6-104-24(43489)
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् ।
व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥ 6-104-25(43490)
ससंभ्रमो महाराज संशयं परमं गतः ॥ 6-104-26(43491)
अवप्लुत्य ततो वाहाद्बाह्लीकः पुरुषोत्तमः।
आरुरह रथं तूर्णं लक्ष्मणस्य महारणे ॥ 6-104-27(43492)
सात्यकिः कृतवर्माणं वारयित्वा महारणे ।
शरैर्बहुविधै राजन्नाससाद पितामहम् ॥ 6-104-28(43493)
स विद्ध्वा भारतं षष्ट्या निशितै रोमवाहिभिः।
नृत्यन्निव रथोपस्थे विधुन्वानो महद्धनुः ॥ 6-104-29(43494)
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः ।
हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥ 6-104-30(43495)
तामापतन्तीं सहसा मृत्युकल्पां सुदुर्जयाम्।
व्यंसयामास वार्ष्णेयो लाघवेन महायशाः ॥ 6-104-31(43496)
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा ।
न्यपतद्धरणीपृष्ठे महोल्केव महाप्रभा ॥ 6-104-32(43497)
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं कनकप्रभाम् ।
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति॥ 6-104-33(43498)
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे ।
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥ 6-104-34(43499)
तामापतन्तीं सहसा द्विधा चिच्छेद भारतः ।
क्षुरप्राभ्यां सुतीक्ष्णाभ्यांसा व्यशीर्यत मेदिनीम् ॥ 6-104-35(43500)
छित्त्वा शक्तिं तु गाङ्गयः सात्यकिं नवभिः शरैः ।
आजघानोरसि क्रुद्धः प्रहसञ्छत्रुकर्शनः ॥ 6-104-36(43501)
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज।
परिवब्रू रणे भीष्मं माधवत्राणकारणात् ॥ 6-104-37(43502)
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥ ॥ 6-104-38(43503)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे चतुरधिकशततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-104-7 तेनतेन पथा ॥ 6-104-20 महामात्रौ श्रेष्ठौ ॥ 6-104-29 भारत भीष्मम् । रोमवाहिभिः रोमच्छेदकैः ॥ 6-104-35 मेदिनीं प्राप्येति शेषः ॥ 6-104-37 माधवः सात्यकिः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|